कार्यालयः ( Office)

 भवान् कति दिनानि विरामं स्वीकरोति ?

How many days of leave are you taking ?


एषु दिनेषु महान् कार्यभारः ।

Of late the weight of work is unbearable.


इमां सूचनाफलके स्थापयतु ।

Put this up on the notice board.


अत्र हस्तांकनं करोतु ।

Sigh here, please.


सः विरामं स्वीकृतवान् । 

He is on leave.


अस्मिन् विषये पुनः अपि चिन्तयामि ।

I will think about this again.


आगामि सप्ताहे मां पश्यतु ।

See me next week.


अस्मिन् विषये अनन्तरं वदामि ।

I'll tell you about it later.


एतत् अहं अवश्यं स्मरामि । 

I'll certainly remember this.


भवदुक्तं सर्वं ज्ञातवान् भोः ।

I have understood what you said.


अत्र तस्य एव सर्वाधिकारः ।

He is all in all here.


मम कृते काऽपि दूरवाणी आगता वा ? 

Any phone calls for me ?


भवतः कृते दूरवाणी आगता आसीत् ।

There was a phone call for you.


भवान् कस्मिन् स्थाने नियुक्तः अस्ति ?

Which post do you occupy in the office ?


एषः सर्वदा आगत्य पीडयति । 

He troubles me always.


इदानीं समयः अतीतः । 

It is getting late.


कृपया श्वः आगच्छतु ।

Come tomorrow,please.


सः आगतवान् इति स्मरामि । 

I remember, he came here.


पञ्चवादनपर्यन्तं अत्रैव आसीत् ।

He was here till 5.00.


मां आहूतवान् वा ? 

Did you call me?


तद् व्यवस्थां अहं करोमि । 

I will see to that arrangement.


कार्यालयस्य समाप्तिः कदा ?

When does your office close ?


एतद्विषये श्वः पुनरपि स्मारयतु । 

Remind me about this tomorrow.


तं अत्र आगन्तुं सूचयतु । 

Ask him to come here.


किमर्थं इदानीं अपि कार्यं न आरब्धम् ? 

Why hasn't the work begun ?


अन्येषां उपहासेनैव कालं यापयति ।

He spends time criticizing othere.


मया किं करणीयं, वदतु । 

Tell me what I should do.


अहं किं करोमि भोः ?

What shall I do ?


अस्तु, परिशीलयामः । 

Be it so, let us see.


आगच्छतु, किञ्चित् काफीं पिबामः ।

Come, let's have a cup of coffee.


भवान् शीघ्रं प्रत्यागच्छति वा ? 

Are you going to be back soon ?


कृपया उपविशतु ।

Please, sit down.


पञ्चनिमेषेषु एतद् कृत्वा ददामि । 

I'll get it done in five minutes.


अद्य सः अत्र नास्ति किल । 

As you know, he is not here today.


सः एकसप्ताहाभ्यन्तरे आगच्छेत् ।

He may be back in a week's time.