सामान्य वाक्यानि ( Ordinary sentences)

प्रयत्नं करोमि ।

I will try.


न शक्यते भोः ।

No, I can't.


तथा न वदतु । 

Don't say that.


तत्र कोऽपि सन्देहः नास्ति ।

There is no doubt about it.


तद् अहं न ज्ञातवान् । 

I didn't know that.


कदा ददाति ? 

When are you going to give me ?


अहं कथं वदामि {\rm `}कदा इति{\rm '} ? 

How can I say when ?


तथा भवति वा ? 

Can that be so ?


भवतः समयावकाशः अस्ति वा ? 

Are you free ?


अद्य भवतः कार्यक्रमः कः ? 

What are your programmes for today ?


अरे ! पादौ / हस्तौ किं अभवत् ? 

Oh! What happened to your legs/arms?


बहुदिनेभ्यः ते परिचिताः । 

I have known him for long ( shouldn't be'them' for 'him'? May be plural'te' is used for a VVIP))


तस्य कियद् धैर्यं/धार्ष्ट्यम् ? 

How dare he is ?


भवान् न उक्तवान् एव ।

You have not told me..


अहं किं करोमि ?

What can I do ?


अहं न जानामि ।

I don't know.


यथा भवान् इच्छति तथा ।

As you wish/say.


भवतु, चिन्तां न करोतु 

Yes, don't bother.


तेन किमपि न सिध्यति ।

There is no use/nothing hppenns on account of that.


सः सर्वथा अप्रयोजकः । 

He is good for nothing.


पुनरपि एकवारं प्रयत्नं कुर्मः ।

Let us try once more.


मौनमेव उचितम् ।

Better be quiet.


तत्र अहं किमपि न वदामि । 

I do not want to say anything in this regard/No comments, please/I must think before I say anything.


तर्हि समीचीनम् । 

O.K. if that is so.


एवं चेत् कथम् ? 

How to get on, if it is so ?


मां किञ्चित् स्मारयतु । 

Please remind me.


तं अहं सम्यक् जानामि । 

I know him well.


तदानीमेव उक्तवान् किल ? 

Haven't I told you already ?


कदा उक्तवान् भोः ? 

When did you say so ?


यत्किमपि भवतु । 

Happen what may.


सः बहु समीचीनः

He is a good fellow.


सः बहु रूक्षः ।

He is very rough.


तद्विषये चिन्ता मास्तु ।

Don't worry about that.


तथैव इति न नियमः ।

It is not like that.


कर्तुं शक्यं, किञ्चित् समयः अपेक्षते ।

I/We can do it, but require time.


एतावत् अपि कृतवान् ! 

At least he has done this much !


द्रष्टुं एव न शक्यते । 

Can't see it.


तत्रैव कुत्रापि स्यात् । 

It may be somewhere there.


यथार्थं वदामि । 

I am telling the truth.


एवं भवितुं अर्हति । 

This is O.K./all right.


कदाचित् एवमपि स्यात् । 

It may be like this sometimes.


अहं तावदपि न जानामि वा ? 

Don't I know that much ?


तत्र गत्वा किं करोति ? 

What are you going to do there ?


पुनः आगच्छन्तु । 

Come again.


मम किमपि क्लेशः नास्ति । 

It is no trouble (to me).


एतद् कष्टं न । 

This is not difficult.


भोः, आनीतवान् वा ? 

Have you brought it ?


भवतः कृते कः उक्तवान् ?

Who told you this ?


किञ्चिदनन्तरं आगच्छेत् ।

He/It may come sometime later.


प्रायः तथा न स्यात् । 

By and large, it may not be so.


चिन्ता मास्तु, श्वः ददातु ।

It is no bother, return it tomorrow.


अहं पुनः सूचयामि । 

I will let you know.


अद्य आसीत् वा ? 

Was it today ?


अवश्यं आगच्छामि ।

Certainly, I will come.


नागराजः अस्ति वा ? 

Is Nagaraj in ?


किमर्थं तत् एवं अभवत् ?

Why did it happen so ?


तत्र आसीत् वा ? 

Was it there ?


किमपि उक्तवान् वा ? 

Did you say anything ?


कुतः आनीतवान् ?

Where did you bring it from ?


अन्यत् कार्यं किमपि नास्ति ।

Don't have any other work.


मम वचनं शृणोतु ।

Please listen to me.


एतत् सत्यं किल ? 

It is true, isn't it ?


तद् अहं अपि जानामि । 

I know it myself.


तावद् आवश्यकं न । 

It is not needed so badly.


भवतः का हानिः ? 

What loss is it to you ?


किमर्थं एतावान् विलम्बः ?

Why are you late ?


यथेष्टं अस्ति । 

Available in plenty.


भवतः अभिप्रायः कः ?

What do you say about it ?/What is your opinion ?


अस्य किं कारणम् ? 

What is the reason for this ?


स्वयमेव करोति वा ?

Do you do it yourself ?


तत् न रोचते ? 

I don't like it.


उक्तं एव वदति सः । 

He has been repeating the same thing.


अन्यथा बहु कष्टम् । 

It will be a big botheration if it is not so.


किमर्थं पूर्वं न उक्तवान् ? 

Why didn't you say it earlier ?


स्पष्टं न जानामि ।

Don't know exactly.


निश्चयः नास्ति ।

Not sure.


कुत्र आसीत् भवान् ? 

Where were you ?


भीतिः मास्तु ।

Don't get frightened.


भयस्य कारणं नास्ति । 

Not to fear.


तदहं बहु इच्छामि 

I like that very much.


कियत् लज्जास्पदम् ? 

What a shame ?


सः मम दोषः न । 

It is not my fault.


मम तु आक्षेपः नास्ति । 

I have no objection.


सः शीघ्रकोपी । 

He is short-tempered.


तीव्रं मा परिगणयतु । 

Don't take it seriously.


आगतः एषः वराकः ।

Here comes the miserable.


युक्ते समये आगतवान् । 

you have come at the right time.


बहु जल्पति भोः । 

He talks too much.


एषा केवलं किंवदन्ती । 

It is just gossip.


किमपि न भवति ।

Nothing happens.


एवमेव आगतवान् ।

Just came to call on you.


विना कारणं किमर्थं गन्तव्यम् ?

Why go there unnecessarily ?


भवतः वचनं सत्यम् । 

You are right.


मम वचनं कः शृणोति ? 

Who listens to me ?


तदा तद् न स्फुरितम् । 

It did not flash me then.


किमर्थं तावती चिन्ता ? 

Why so much botheration ?


भवतः किं कष्टं अस्ति ? 

Tell me, what your trouble is ?


न, एवं न भवितव्यं आसीत् । 

No, it should not have happened.


अन्यथा न चिन्तयतु । 

Don't mistake / misunderstand.

== मित्र मिलनम् ( Meeting the friends )


नमोनमः । 

Good morning/afternoon/evening


किं भोः, दर्शनमेव नास्ति !

Hello, didn't see you for long !


न, अत्रैव सञ्चरामि किल ! 

No, I have been moving about right here !


किं भोः, वार्ता एव नास्ति ? 

Hello, not to be seen for a long time !


किं भोः, एकं पत्रं अपि नास्ति ? 

Hey, You haven't even written a letter !


वयं सर्वे विस्मृताः वा ? 

You have forgotten us all, Haven't you ?


कथं विस्मरणं भवति भोः ? 

How can I forget you ?


भवतः सङ्केतं एव न जानामि स्म। 

I didn't know your address.


महाजनः संवृत्तः भवान् !

you have become a big man !


भवान् एव वा ! दूरतः न ज्ञातम् । 

Is it you ? I couldn't recognise you from a distance.


ह्यः भवन्तं स्मृतवान् । 

I remembered you yesterday.


किं अत्र आगमनम् ? 

What made you come here ?


अत्रैव किञ्चित् कार्यं अस्ति । 

I have some work here.


त्वरितं कार्यं आसीत् । अतः आगतवान् । 

I am here as I have some urgent work.


बहुकालतः प्रतीक्षां करोमि ।

I have been waiting for you for a long time.


यानं न प्राप्तं, अत एव विलम्बः ।

Could not get the bus,hence late.


आगच्छतु भोः, गृहं गच्छामः ।

Come, let us go home.


इदानीं वा, समयः नास्ति भोः । 

Now? No time, you know.


श्वः सायं मिलामः वा ? 

Shall we meet tomorrow evening ?


अवश्यं तत्रैव आगच्छामि । 

I'll come there without fail.


इदानीं कुत्र उद्योगः ? 

Where do you work now ?


यन्त्राकारे उद्योगः ।

I work in a factory.


ग्रामे अध्यापकः अस्मि । 

I am a teacher in a village.


इदानीं कुत्र वासः ? 

Where are you put up ?


एषः मम गृहसङ्केतः । 

This is my address.


यानं आगतं, आगच्छामि । 

Bus has come, bye, bye.


अस्तु, पुनः पश्यामः । 

OK. Let us meet again.


पुनः अस्माकं मिलनं कदा ? 

When shall we meet again ?


पुनः कदा मिलति भवान् ? 

When are you going to meet me ? (again)


तद्दिने किमर्थं भवान् न आगतवान् ? 

Why didn't you come that day ?


वयं आगतवन्तः एव । 

We have already arrived.


भवतः समीपे संभाषणीयं अस्ति ।

I have something to talk to you about.


भवान् अन्यथा गृहीतवान् ।

You have mistaken me.


भवन्तं बहु प्रतीक्षितवान् । 

I very much expected you.


बहुकालतः तस्य वार्ता एव नास्ति । 

No news from him for days.


भवतः पत्रं इदानीं एव लब्धम् । 

I have just received your letter.


किञ्चिद्दूरं अहमपि आगच्छामि । 

I will walk with you for some distance.


मिलित्वा गच्छामः । 

Let us go together.


तिष्ठतु भोः, अर्धार्धं काफी पिबामः । 

Wait, let's have a by-two [cutting] coffee (It appears to mean sharing one cup of coffee between two persons)


अस्तु, पिबामः । 

Fine, let us have it.


स्थातुं समयः नास्ति । 

 No time to stay.


गमनात् अनुक्षणमेव पत्रं लिखतु । 

Write as soon as you reach there.


पुनः कदाचित् पश्यामि । 

Meet you again.


यदा कदा वा भवतु, अहं सिद्धः ।

I am ready any day.


तेषां कृते मम शुभाशयान् निवेदयतु ।

Convey my good wishes to them/*him(Only if that person is a VIP).