प्रयाणम् ( Journey)
चीटिकां कुत्र क्रीणामि ?
Where shall I buy a ticket ?
शीघ्रं आगच्छतु, यानं गच्छति ।
Come quickly, the bus is about to start.
इदानीं एव एकं यानं गतम् ।
A bus left just a few minutes ago.
अहं भवतः पार्श्वे उपविशामि ।
I'll sit beside you.
किञ्चित् समञ्जनं कुर्मः ।
Let us adjust a bit.
महान् जनसम्मर्दः ।
Terrible rush.
परिवर्तं ददातु ।
Give me the change.
अग्रे गच्छतु ।
Go forward.
कदा वा निर्गच्छति ? ।
What time does it start ?
शीघ्रं अवतरतु ।
Get off quickly.
अग्रिमं निस्थानं अस्माकं वा ? ।
Is the next station ours ?
मल्लेश्वरयानस्य का संख्या ? ।
Which bus (Route No.) goes to Malleswaram?
किंसंख्याकं यानं जयनगरं गच्छति ? ।
Which bus goes to Jayanagar ?
फलकमपि नास्ति, किमपि नास्ति ।
No signboard, nothing.
अये, पादपथे आगच्छतु ।
Hey, walk on the footpath.
मल्लेश्वरं गन्तुं कः मार्गः ? ।
Which is the way to Malleswaram ?
बहुदूरे अस्ति वा ? ।
Is it very far ?
एषः सङ्केतः कुत्र इति जानाति वा ? ।
Could you possibly tell me where this address/place is ?
इतः केवलं दशनिमेषाणां गमनम् ।
It is just ten minutes walk from here.
यानं न लब्धम् ।
Missed the bus.
यानस्य निर्गमनाय इतोऽपि अर्धघण्टा अस्ति ।
It is still half an hour before the bus starts.
यानं दशवादने आगच्छति ।
The bus arrives at 10 0'clock.
पञ्चवादने एकं यानं अस्ति ।
There is a bus at 5 0'clock.
यानं तदानीं एव आगत्य स्थितम् ।
Bus has already arrived at the platform.
आरक्षणं नास्ति ।
No reservation, please.
एवमेव अग्रे गच्छन्तु ।
Go just along this road.
अत्रैव कुत्रचित् स्यात्, अन्वेषणं कुर्मः ।
It will be somewhere here. Let us search for it.
तत्रैव अस्ति । तत्रैव स्यात् ।
It is there./It might be there.
अहं न जानामि, अन्यं पृच्छतु ।
I don't know, ask someone else, please.
भवान् शीघ्रं न गच्छति चेत् यानं न मिलति ।
If you do not walk faster, you will miss the bus.
एषः मार्गः कुत्र गच्छति ? ।
Where does this path lead to ?
भवान् आरक्षणं कृतवान् वा ? ।
Have you reserved your seat ?
सर्वं स्वीकृतवान् किल ? ।
You have taken everything, haven't you ?
कृपया सर्वबन्धकं स्वीकरोतु ।
Please take your hold-all.
स्यूतम्
the bag.
एतद्
this.
चीटिकाम्
the ticket.
यानस्यूतम्
the air bag.
यानपेटिकाम्
the suitcase.
वनितास्यूतम् ।
the vanity bag.
धनविषये जागरूको भवतु ।
Be careful with your money.
ततः आगन्तुं एतावान् विलम्बः वा ? ।
Such a long time to come here from there ?
एकं अपि यानं न आगतम् ।
Not a single bus has come.
षष्टिसंख्याकं यानं गतं वा ? ।
Has Route 60 bus gone ?
अहं इदानीं एव आगतवान् ।
I have just arrived.
कीदृशः मार्गः अयम् ! ।
What a road !