परीक्षा ( Examination)

 परीक्षारम्भः कदा इति ज्ञातः वा ?

Do you know when is the examination going to begin ?


प्रवेशपत्रं स्वीकृतं वा ?

Have you taken the admission ticket ?


परीक्षा अग्रे गता ।

The examination is postponed.


वेलापत्रिका आगता वा ? 

Has the examination time table come ?


परीक्षा कथं आसीत् ?

How was the exam. ?


प्रश्न पत्रिका किञ्चित् क्लिष्टा आसीत् 

The question paper was a bit tough.


अतीव सुलभा आसीत् ।

It was very easy.


अहं प्रथमश्रेण्यां उत्तीर्णः ।

I have passed in I class.


ह्यः फलितांशः प्रकटितः ।

The result was announced yesterday.


अङ्कद्वयेन प्रथमश्रेणी न लब्धा ।

I missed I class by two marks.


प्रश्नेषु विकल्पः एव नासीत् । 

There was no choice at all.


फलितांशः श्वः ज्ञातः भविष्यति ।

The result will be announced tomorrow.


रमेशः उत्तीर्णः वा ? 

Has Ramesh passed ?


एकं पत्रं अवशिष्टं इति उक्तवान् ।

He has told me that he has to complete one paper yet.


पठितं किमपि न स्मरामि भोः ।

Don't remember what I have read, you know.


दशवारं पठितवान्, तथापि न स्मरामि ।

I read it ten times, even then I do not remember.


प्रायशः द्वितीयश्रेणी लभ्येत ।

Most probably, I will pass in II class.


अस्माकं गणे सर्वेऽपि उत्तीर्णाः ।

Everyone passed in our batch.


प्रतिशतं कति अङ्काः प्राप्ताः ?

What is the percentage ?