छात्राः ( Students)
अत्रैव कलाशालायां पठामि ।
Studying in a college here.
सिद्धता कथम् अस्ति ?
How is your preparation ?
पाठ्यभागः एव न समाप्तः ।
Portions have not been completed.
गणितश्रवणमात्रेण मम शिरोवेदना ।
Mathematics is a head-ache to me.
गाढं अभ्यासः वा ?
Studying very hard ?
अद्य किमपि न पठितवान् एव ।
Couldn't read much today.
मम अक्षराणि न सुन्दराणि ।
My handwriting is not good.
एतां कादम्बरीं पठितवान् वा ?
Have you read this novel ?
बहु सम्यक् अस्ति ।
It is very interesting.
बहु पूर्वमेव पठितवान् ।
I read it long ago.
शीघ्रं पठित्वा ददामि भोः ।
I'll return it early after reading.
अद्य उत्थाने विलम्बः सञ्जातः ।
Got up a bit late today.
अहं गृहे एव त्यक्त्वा आगतवान् ।
I have left it at home.
अद्य तु विरामः ।
Today is a holiday, anyway.
भवतः वर्गशिक्षकः कः ?
Who is your class teacher ?
अद्य समवस्त्रेण गन्तव्यं वा ?
Do we have to go in our uniforms today ?
यावत् शालां गतवान् तावत् घंठा ताडिता ।
The bell went by the time I reached school.
श्रीमन्, अन्तः आगच्छामि वा ?
May I come in, sir ?
श्रीमन्, विशेषकक्ष्यां स्वीकरोति वा ?
Are you going to take a special class,sir ?
लेखनीं एकवारं ददाति वा ?
May I borrow your pen ?
टिप्पणीं किञ्चित् ददाति वा ?
Would you kindly lend me your notes ?
ह्यः एव गिरीशः स्वीकृतवान् ।
Girish borrowed it yesterday.
अहं तद्दिने वर्गं न आगतवान् आसम् ।
I did not attend the class that day.
आगच्छतु भोः, क्रीडामः ।
Come on, let's play.
पठनीयं बहु अस्ति भोः ।
I have a lot to read, you know.
किं मम पठनीयं नास्ति वा ?
Do you think I don't have anything to read ?
पदवी अशीतितमे वर्षे समापिता वा ?
Did you take your degree in the year 1980 ?
सम्यक् न स्मरामि भोः ।
I do not remember exactly.
तिष्ठतु, अहं स्मरामि तत् ।
Wait, I know it.
श्वः आरभ्य सहाध्ययनं कुर्मः ।
Let us do combined study from tomorrow.