पितरः पुत्राः च ( Fathers/sons/mothers)
एतावत्पर्यन्तं कुत्र गतवान् ?
Where had you been so long ?
कुत्रापि न, अत्रैव आसम् ।
I was just here.
पठनं किमपि नास्ति वा ?
Nothing to read ? (Don't you have anything to read ?)
वक्ता प्रष्टा कोऽपि नास्ति वा ?
Is there no one to keep you under check ?
सहस्रवारं उक्तं, श्रुतवान् वा ?
I told you a thousand times. Did you listen to me ?
मम गृहपाठः बहु अस्ति ।
I have a lot of homework to do.
अद्य एव शुल्कं दातव्यं अस्ति ।
I have to pay the fees right today.
अन्तिमदिनाङ्कः कदा ?
Which is the last date for payment of fees ?
अद्य एव दातव्यं वा ?
Have to pay it right today ?
किं, अद्य दातव्यं वा ?
What, do we have to pay it today ?
अम्ब, एकं नवीनं युतकं आवश्यकम् ।
Mummy, I would like to have a new shirt.
गोविन्द, आपणं गत्वा आगच्छति वा ?
Govind, will you go to the shop to get something ?
अम्ब, वेणीबन्धं करोतु, शालायाः विलम्बः भवति ।
Mummy, twine my plait, it is getting late for school.
कः समयः इति जानाति वा ?
Do you know what time it is now ?
किमर्थं विलम्बः ?
Why are you late ?
पितरं एकवारं आह्वयतु ।
Please ask daddy to come here.
भवतः कृते कथनापेक्षया स्वयं करणं वरम् ।
Better do the work myself rather than asking you to do it.
भवती अनन्तरं उपविशतु ।
You sit down a little later.
तस्य कृते चत्वारि दत्तवती, मम कृते तु त्रीणि एव !
You gave him four, only three to me.
सर्वं भवान् एव खादितवान् वा ?
Have you eaten everything yourself ?
एकं कार्यं कतिवारं वक्तव्यम् ?
How often should I tell you about that ?
कुत्रापि स्थापयति, अनन्तरं मां पृच्छति ।
You misplace it somewhere and come and ask me.
भोजनसमये आह्वयामि, इदानीं गच्छतु ।
I will call you during meal time, off you go now.
तेन सह न गच्छतु इति दशवारं उक्तवती ।
I have asked you ten times not to go in his company.
पार्श्वगृहं गत्वा पत्रिकां आनयतु ।
Get me the newspaper from our neighbour.
अहं सर्वं व्यवस्थितं स्थापयितुं, सः व्यस्तं कर्तुम् ।
I keep things in order and he throws everything away.
अम्ब, किञ्चित् सीवनं करोतु ।
Mummy, stitch this up, please.
कृपया एतद् बहिः क्षिपतु ।
Please, throw this away.
शाकं किञ्चित् कर्तयित्वा ददातु ।
Cut the vegetables, please.
एकवारं एव सर्वं वदतु भवती ।
Tell me everything at one go.
भवान् धीमान्/कुशलः बालः ।
You are a good boy.
अम्ब, अत्र किञ्चित् वेदना अस्ति ।
Mummy, it pains me here.
निद्रां करोतु,सम्यक् भविष्यति ।
Sleep well, you will be all right.
रात्रौ कषायं करोमि ।
I'll make some concoction (medicine) at night.
पीत्वा शयनं करोतु ।
You may drink it and then sleep.
इदानीं गत्वा किञ्चित् पठतु ।
Go and read now.
किं, इदानीम् एव निद्रा वा ?
What ! feeling sleepy so early ?
गणिते दश अङ्काः एव इति स्मरति वा ?
Do you remember, you have secured only 10 marks in Mathematics ?
अम्ब, तान् अन्यत्र पठितुं वदतु ।
Mummy, ask them to read in separate rooms.
एतावत् धनं न पर्याप्तम् ।
This much money is not enough.
शिरसि तैलसमुक्षणं करोतु ।
Please apply oil to my head.
निद्रया आन्दोलनं करोति, पश्यतु ।
See, he is dozing.
शिशुः रोदिति ।
The child is crying.
संमार्जनं कृतवती वा ?
Have you swept the floor ?
इदानीं अपि रङ्गवल्लीं न लिखितवती वा?
Haven't you yet drawn designs in front of the house ?
कतिवारं वक्तव्यम् ?
How often should I tell you ?
कुत्र गतवान् ? गृहे नास्ति वा ?
Where has he gone ? Isn't he at home ?
प्रत्युत्तरं न वदतु ।
Don't answer back.
उक्तं न श्रुतवान् वा ?
Haven't you listened to what I told you ?
अद्यतन पत्रिकां ददातु ।
Give me today's newspaper.
सः आगतवान्, एषः प्रस्थितवान् ।
He has arrived and this fellow has started/departed.
कटं प्रसारयतु । = Spread the mat.
रजकः वस्त्रं नीतवान् वा ?
Has the washerman taken the clothes?
वस्त्राणि शुष्कयितुं प्रसारयतु ।
Spread the clothes for drying.
गत्वा शयनं करोतु ।
Go to bed and sleep.
एकं आसन्दं आनयतु ।
Bring me a chair.
दानीम् अपि निद्रा न आगता वा ?
Haven't you slept yet ?
पश्यतु, कः शब्दं करोति ?
see, who is making that noise ?
किमिदं, सर्वत्र अवकरः ?
What is this ? It is dirty everywhere.
द्वारं पिदधातु (द्वारपिधानं करोतु) ।
Close the door, please.
एतद् किञ्चित्कालं गृह्णातु ।
Hold it for some time.
मध्ये सम्भाषणं न करोतु ।
Don't butt in when I speak.
कोलाहलं मा करोतु ।
Don't make noise, be quiet.
दीपान् ज्वालयतु ।
Put on the lights, please.
दीपान् निर्वापयतु ।
Put off the lights, please.
व्यजनं चालयतु ।
Put on the fan,please.
बहिः अन्धकारः, करदीपं गृहीत्वा गच्छतु ।
It is dark outside, take the torch with you.
अवहितमनसा करणीयम् ।
Do it with some interest, please.
श्रद्धया करणीयम् ।
Do it with your heart in it, please.
तं यानं आरोप्य आगच्छतु ।
Please see him on to the bus.
पाणिपादं प्रक्षालयतु ।
Have a wash,please (Wash your hands and feet).
कुड्मान् योजयतु ।
Button your shirt, please.
आरोग्यं निर्लक्ष्य मा पठतु ।
Don't read too much and spoil your health.
इतः परं एवं न कर्तव्यम् ।
Don't do this again.
द्राविडप्राणायामेन न वदतु, साक्षात् वदतु ।
Don't go on beating about the bush, speak plainly.
सम्यक् दन्तधावनं करोतु ।
Brush your teeth well.
विना कारणं कुप्यति ।
You get angry and shout unnecessarily.
वृथा कालहरणं करोति ।
You are wasting time.
मां न कोपयतु ।
Don't enrage me.
हठं मा करोतु ।
Don't be arrogant.
किमर्थं भवान् क्षुभ्यति ?
Why are you shouting ?
प्रथमं शिरोमार्जनं करोतु ।
Dry your hair first.
आर्द्रवस्त्रं न धारयतु ।
Don't put on wet clothes.
शीघ्रं स्नानं कृत्वा आगच्छतु ।
Have your bath quickly.
भाण्डे जलं अस्ति वा ?
Is there water in the barrel ?
आकाशवाणीं चालयतु ।
Put on the radio, please.
विविधभारतीं योजयतु ।
Switch on to Vividhabharathi, please.
वार्ता समाप्ता वा ?
Is the news over ?