मातापितरः ( Parents)
अद्य किञ्चित्पूर्वं आगच्छन्ति वा ?
Will you come back home a bit early today, dear ?
किमर्थं ? कः विशेषः ?
Why? anything special ?
सायं आगमनसमये शाकं आनयन्ति वा ?
Bring home some leafy vegetable, will you ?
रविवासरे तान् आह्वयामः वा ?
Shall we invite them on Sunday ?
बालिका किमपि आवश्यकं इति वदति स्म ।
The girl was asking for something.
अवश्यं स्मृत्वा आनयन्तु ।
Please bring it without fail.
किमर्थं प्रतिदिनं विलम्बेन आगच्छन्ति ?
Why do you come late everyday ?
कस्मिन् समये आगच्छन्ति अद्य ?
What time will you be back today ?
कुञ्चिकां पार्श्वगृहे दत्वा गच्छामि ।
I will leave the key with our neighbours.
किमिति पदे पदे आह्वयन्ति ?
Why are you calling me again and again ?
सर्वं तत्रैव अस्ति, किञ्चित् पश्यन्तु ।
Everything is there. Look for them a bit more carefully, please.
भोजनार्थं कोऽपि विशेषः ?
Any special arrangement for meals ?
अद्य अस्माकं कृते काफी अस्ति वा ?
Is there going to be some coffee for us ?
इदानीम् अपि स्नानं न कृतम् ?
No bath yet ?
भवन्तः किल मास्तु इति उक्तवन्तः ।
It is you who said you did not want it.
समये एकमपि/किमपि न मिलति ।
You do not get anything when you need it badly.
वेतनं लब्धं वा ?
Got your salary ?
क्षीरार्थं अद्य एव दातव्यं अस्ति ।
We have to pay the milk-man today.
ते सर्वदा कलहं कुर्वन्ति ।
They always quarrel.
तथा किमर्थं वदति ?
Why do you say so ?
तत्र अस्ति वा नास्ति वा इति प्रथमं एव द्रष्टव्यम् ।
You have to see first if it is there or not.
अहं कार्यालयं गच्छामि ।
I am going to my office.
अस्य जतुलेपं कारयन्तु ।
Get this vessel gilted.
मार्गे सौचिकं विचार्य गच्छन्तु ।
Look up the tailor on your way.