शिक्षकः (Teacher)

 भवतः वेतनश्रेणी का ?

What is your scale of pay ?


इदानीं सर्वत्र समाना किल ?

Now it is uniform everywhere, isn't it ?


प्राचार्यस्य आदेशं दृष्टवान् वा ?

Have you seen the Principal's memo (orders) ?


अहो! तत्तु सामान्यम् । 

Oh!leave it. It is common.


अधिवेतनं लब्धं वा ?

Got your increment ?


लिपिकं दृष्टवान् वा? 

Have you seen the clerk ?


एवं चेत् कथं जीवामः ?

How to live in that case ?


महान् कोलाहलः इति श्रुतवान् ।

I heard, there was a lot of noise.


पत्रिका पठिता वा ? वेतनं वर्धितम् ।

Read the newspaper. A rise in pay is announced.


कदा आरभ्य अन्वयः ? 

When does it come into effect ?


इदानीं कक्ष्या अस्ति वा ? 

Do you have classes now ?


अद्य कक्ष्यां न स्वीकरोमि, इति सूचयतु ।

Tell them, I am not going to take classes today.


प्राचार्यः आगतः वा ? 

Has the Principal come ?


अस्मिन् मासे कति विरामः ? 

How many holidays (are there) this month ?


परश्वः विरामः अस्ति वा ? 

Is there a holiday, the day after ?


प्रश्नपत्रिका सज्जीकृता वा?

Is the question paper ready ?


अस्मिन् वर्षे फलितांशः कथम् ?

How is the result this year ?


एतावन्तः अङ्काः कथं लब्धाः इति ?

How did he manage to get such high marks ?


परीक्षकाणां औदार्यम् ।

Examiners' large heartedness.


परीक्षा अन्या, योग्यता अन्या ! 

Examination is one thing, ability another.


मौल्यमापनार्थं गच्छति वा ?

Are you going for valuation ?


मौल्यमापनं कुत्र ?

Where is valuation going to be ?


अस्वस्थः अपि आगतवान् ।

I am here in spite of being ill.


इदानींतन बालास्तु !

The students of the present day !


अये अत्र आगच्छतु !

Hey, come here.


गणितस्य अध्यापकः अस्ति वा पश्यतु ।

See, if the mathematics teacher is there.


ते तु बालाः किल !

After all they are students.


किं भोः सम्यक् पठति किल !

You are studying well, aren't you ?


संशयः अस्ति चेत् पृच्छन्तु !

Ask if you have any doubts !


ज्ञातं किल !

Understand !


पुनः एकवारं वदतु ।

Beg your pardon (This means please repeat).


एकं अपि गणितं न कृतवान् वा ?

Haven't you worked out a single sum ?


एवं चेत् परीक्षायां किं करोति ?

At this rate how are you going to face examination?


सेवकं किञ्चित् आह्वयतु । 

Please call the peon.


घण्टा नादिता वा ?

Has the bell gone ?


टिप्पणीं लिखन्तु ।

Please take the notes.


एकोऽपि न जानाति वा ? 

Does not even one know the answer ?


भवान् ज्ञातवान् वा ? वदतु किञ्चित् ।

Have you understood? Come on. Repeat.


अद्य एतावदेव पर्याप्तम् ।

Enough for today.


अस्य अनुच्छेदस्य अन्ते समापयामः ।

Let us stop at the end of this paragraph.


श्वः एतद् सम्यक् पठित्वा आगन्तव्यम् ।

Read this well when you come tomorrow.


गृहे किमपि पठन्ति वा ? 

Do you read anything at home ?


किं भोः कोलाहलः ।

Whaat is the noise there about ?


ह्यः कियत् पर्यन्तं पाठितवान् ?

Where did we stop yesterday ?